अमरकोशः


श्लोकः

परतन्त्रः पराधीन: परवान्नाथवानपि । अधीना निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 परतन्त्र परतन्त्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परस्तन्त्रं प्रधानं यस्य ॥ बहुव्रीहिः समासः अकारान्तः
2 पराधीन पराधीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परस्मिन्नधि । तत्पुरुषः समासः अकारान्तः
3 परवत् परवत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परः स्वाम्यस्यास्ति । मतुप् तद्धितः तकारान्तः
4 नाथवत् नाथवत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नाथोऽस्यास्ति ॥ मतुप् तद्धितः तकारान्तः
5 अधीन अधीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इनमधिगतः । तत्पुरुषः समासः अकारान्तः
6 निघ्न निघ्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निहन्यते निगृह्यते । कृत् अकारान्तः
7 आयत्त आयत्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आयतते स्म । क्त कृत् अकारान्तः
8 अस्वच्छन्द अस्वच्छन्दः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न स्वः छन्दोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
9 गृह्मक गृह्मकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गृह्यते । क्यप् कृत् अकारान्तः