अमरकोशः


श्लोकः

एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा । दिग्देशकाले पूर्वादौ प्रागुदप्रत्यगादयः ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 एतर्हि एतर्हिः अव्ययम् अस्मिन्काले हिल् इकारान्तः
2 संप्रति संप्रतिः अव्ययम् सम्’ ‘प्रति’ एतयो: समाहारः तत्पुरुषः समासः इकारान्तः
3 इदानीम् इदानीम् अव्ययम् अस्मिन्काले दानीम् तद्धितः मकारान्तः
4 अधुना अधुना अव्ययम् निपातनात् आकारान्तः
5 साम्प्रतम् साम्प्रतम् अव्ययम् अण् तद्धितः मकारान्तः
6 प्राच् प्राच् अव्ययम् चकारान्तः
7 उदक् उदक् अव्ययम् ककारान्तः
8 प्रत्यक् प्रत्यक् अव्ययम् ककारान्तः