अमरकोशः


श्लोकः

ह्योऽतीतेऽनागतेऽह्रि श्वः परश्वश्च परेऽहनि । तदा तदानीं युगपदेकदा सर्वदा सदा ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ह्यस् ह्यस् अव्ययम् यातमहः निपातनात् सकारान्तः
2 श्वस् श्वस् अव्ययम् आगामि अहः सकारान्तः
3 परश्वस् परश्वस् अव्ययम् परं च तच् श्वश्च सकारान्तः
4 तदा तदा अव्ययम् तस्मिन् काले दा तद्धितः आकारान्तः
5 तदानीम् तदानीम् अव्ययम् तस्मिन् काले दानीम् तद्धितः मकारान्तः
6 युगपद् युगपद् अव्ययम् युगं पयतेऽस्मिन् गपतक् दकारान्तः
7 एकदा एकदा अव्ययम् एकस्मिन् काले दा तद्धितः आकारान्तः
8 सर्वदा सर्वदा अव्ययम् सर्वस्मिन्काले दा तद्धितः आकारान्तः
9 सदा सदा अव्ययम् दा तद्धितः आकारान्तः