अमरकोशः


श्लोकः

ननु च स्याद्विरोधोक्तौ कच्चित्कामप्रवेदने । नि:षमं दुःषमं गर्ह्ये यथास्वं तु यथायथम् ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ननुच ननुचः अव्ययम् तत्पुरुषः समासः अकारान्तः
2 कच्चित् कच्चित् अव्ययम् तत्पुरुषः समासः तकारान्तः
3 नि:षमम् नि:षमम् अव्ययम् निर्गतं सममत्र तत्पुरुषः समासः मकारान्तः
4 दुःषमम् दुःषमम् अव्ययम् दुष्टं सममत्र बहुव्रीहिः समासः मकारान्तः
5 यथास्वम् यथास्वम् अव्ययम् यो य आत्मा, यद्यच्चात्मीयम्, तद्यथास्वम् निपातनात् मकारान्तः
6 यथायथम् यथायथम् अव्ययम् निपातनात् मकारान्तः