अमरकोशः


श्लोकः

प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् । वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ॥ ३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रतिकृति प्रतिकृतिः स्त्रीलिङ्गः प्रकृष्टा कृतिः । तत्पुरुषः समासः इकारान्तः
2 अर्चा अर्चा स्त्रीलिङ्गः अर्च्यते । कृत् आकारान्तः
3 प्रतिनिधि प्रतिनिधिः पुंलिङ्गः प्रतिनिधीयते सदृशीक्रियते । कि कृत् इकारान्तः
4 उपमा उपमा स्त्रीलिङ्गः अङ् कृत् आकारान्तः
5 उपमान उपमानम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 सम समः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समति । अच् कृत् अकारान्तः
7 तुल्य तुल्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तुलया सम्मितः । यत् तद्धितः अकारान्तः
8 सदृक्ष सदृक्षः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समान इव पश्यति । कञ् कृत् अकारान्तः
9 सदृश सदृशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समान इव पश्यति । क्स कृत् अकारान्तः
10 सदृश् सदृश् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समान इव पश्यति । क्स कृत् शकारान्तः