प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् । वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ॥ ३६ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | प्रतिकृति | प्रतिकृतिः | स्त्रीलिङ्गः | प्रकृष्टा कृतिः । | तत्पुरुषः | समासः | इकारान्तः |
2 | अर्चा | अर्चा | स्त्रीलिङ्गः | अर्च्यते । | अ | कृत् | आकारान्तः |
3 | प्रतिनिधि | प्रतिनिधिः | पुंलिङ्गः | प्रतिनिधीयते सदृशीक्रियते । | कि | कृत् | इकारान्तः |
4 | उपमा | उपमा | स्त्रीलिङ्गः | अङ् | कृत् | आकारान्तः | |
5 | उपमान | उपमानम् | नपुंसकलिङ्गः | ल्युट् | कृत् | अकारान्तः | |
6 | सम | समः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | समति । | अच् | कृत् | अकारान्तः |
7 | तुल्य | तुल्यः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | तुलया सम्मितः । | यत् | तद्धितः | अकारान्तः |
8 | सदृक्ष | सदृक्षः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | समान इव पश्यति । | कञ् | कृत् | अकारान्तः |
9 | सदृश | सदृशः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | समान इव पश्यति । | क्स | कृत् | अकारान्तः |
10 | सदृश् | सदृश् | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | समान इव पश्यति । | क्स | कृत् | शकारान्तः |