अमरकोशः


श्लोकः

पराचितपरिस्कन्दपरजातपरैधिताः । मन्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पराचित पराचितः पुंलिङ्गः परेणाचितः । क्त कृत् अकारान्तः
2 परिस्कन्द परिस्कन्दः पुंलिङ्गः परिस्कन्दति । अच् कृत् अकारान्तः
3 परजात परजातः पुंलिङ्गः परस्माज्जातः । इतच् तद्धितः अकारान्तः
4 परैधित परैधितः पुंलिङ्गः परैरेधितः संवर्धितः ॥ तत्पुरुषः समासः अकारान्तः
5 मन्द मन्दः पुंलिङ्गः मन्दते स्वपिति । अच् कृत् अकारान्तः
6 तुन्दपरिमृज तुन्दपरिमृजः पुंलिङ्गः तुन्दमुदरं परिमार्ष्टि । कृत् अकारान्तः
7 आलस्य आलस्यः पुंलिङ्गः न लसति । ष्यञ् तद्धितः अकारान्तः
8 शीतक शीतकः पुंलिङ्गः शीतं करोति । कन् तद्धितः अकारान्तः
9 अलस अलसः पुंलिङ्गः न लसति । तत्पुरुषः समासः अकारान्तः
10 अनुष्ण अनुष्णः पुंलिङ्गः उष्णादन्यः ॥ तत्पुरुषः समासः अकारान्तः