अमरकोशः


श्लोकः

जीवान्तकः शाकुनिकः द्वौ वागुरिकजालिकौ । वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम् ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जीवान्तक जीवान्तकः पुंलिङ्गः जीवानामन्तकः ॥ तत्पुरुषः समासः अकारान्तः
2 शाकुनिक शाकुनिकः पुंलिङ्गः शकुनान् हन्ति । ठक् तद्धितः अकारान्तः
3 वागुरिक वागुरिकः पुंलिङ्गः वागुरया चरति । ठक् तद्धितः अकारान्तः
4 जालिक जालिकः पुंलिङ्गः जालेन चरति । ठक् तद्धितः अकारान्तः
5 वैतंसिक वैतंसिकः पुंलिङ्गः वीतंसेन मृगपक्ष्यादिबन्धनोपायेन चरति ॥ ठक् तद्धितः अकारान्तः
6 कौटिक कौटिकः पुंलिङ्गः कूटेन मृगादिबन्धनयन्त्रेण चरति ॥ ठक् तद्धितः अकारान्तः
7 मांसिक मांसिकः पुंलिङ्गः मांसं पण्यमस्य । ठक् तद्धितः अकारान्तः