अमरकोशः


श्लोकः

शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः । भरता इत्यपि नटाश्चारणास्तु कुशीलवाः ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शैलालिन् शैलालिनः पुंलिङ्गः शिलादिना प्रोक्तं नटसूत्रमधीयते । णिनि तद्धितः नकारान्तः
2 शैलूष शैलूषः पुंलिङ्गः शिलूषस्य ऋषेरपत्यम् । अण् तद्धितः अकारान्तः
3 जायाजीव जायाजीवः पुंलिङ्गः जायया जीवन्ति । कृत् अकारान्तः
4 कृशाश्चिन् कृशाश्चिनः पुंलिङ्गः कृशाश्वेन प्रोक्तं नटसूत्रमधीयते । इनि तद्धितः नकारान्तः
5 भरत भरताः पुंलिङ्गः भरतस्य मुनेः शिष्याः । अण् तद्धितः अकारान्तः
6 नट नटाः पुंलिङ्गः नटति । अच् कृत् अकारान्तः
7 चारण चारणाः पुंलिङ्गः चारयन्ति कीर्तिम् । ल्यु कृत् अकारान्तः
8 कुशीलव कुशीलवाः पुंलिङ्गः कुत्सितं शीलमस्त्येषाम् । कृत् अकारान्तः