अमरकोशः


श्लोकः

कुम्भकार: कुलाल: स्यात्पलगण्डस्तु लेपकः । तन्तुवाय: कुविन्द: स्यात्तुन्नवायस्तु सौचिकः ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुम्भाकार कुम्भाकारः पुंलिङ्गः कुम्भं करोति । अण् कृत् अकारान्तः
2 कुलाल कुलालः पुंलिङ्गः कुं भूमिं लालयति । अण् कृत् अकारान्तः
3 पलगण्ड पलगण्डः पुंलिङ्गः पलं मांसम् । अच् कृत् अकारान्तः
4 लेपक लेपकः पुंलिङ्गः लिम्पति । ण्वुल् कृत् अकारान्तः
5 तन्तुवाय तन्तुवायः पुंलिङ्गः तन्तून् वयति । अण् कृत् अकारान्तः
6 कुविन्द कुविन्दः पुंलिङ्गः कुं भुवम्, कुत्सितं वा विन्दति । कृत् अकारान्तः
7 तुन्नवाय तुन्नवायः पुंलिङ्गः तुन्नं छिन्नं वयति । अण् कृत् अकारान्तः
8 सौचिक सौचिकः पुंलिङ्गः सूची शिल्पमस्य । ठक् कृत् अकारान्तः