अष्टापदं शारिफलं प्राणिद्यूतं समाह्वयः । उक्ता भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः ॥ ताद्धर्म्यादन्यतो वृत्तावूह्या लिङ्गान्तरेऽपि ते ॥ ४६ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | अष्टापद | अष्टापदः | पुंलिङ्गः, नपुंसकलिङ्गः | पङ्कौ पङ्कौ अष्टौ पदान्यस्य । | बहुव्रीहिः | समासः | अकारान्तः |
2 | शारिफल | शारिफलः | पुंलिङ्गः, नपुंसकलिङ्गः | शारीणां फलं पट्टः । | तत्पुरुषः | समासः | अकारान्तः |
3 | प्राणिद्यूत | प्राणिद्यूतम् | नपुंसकलिङ्गः | प्राणिभिः कृतं द्यूतम् ॥ | तत्पुरुषः | समासः | अकारान्तः |
4 | समाह्वय | समाह्वयः | पुंलिङ्गः | सम्यगाहूयन्तेऽत्र । | घ | कृत् | अकारान्तः |