अमरकोशः


श्लोकः

स्युर्लग्नकाः प्रतिभुव: सभिका द्यूतकारकाः । द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ॥ ४४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लग्नक लग्नकः पुंलिङ्गः लज्यते स्म । क्त कृत् अकारान्तः
2 प्रतिभू प्रतिभू पुंलिङ्गः प्रति प्रतिनिधिर्भवति । क्विप् कृत् ऊकारान्तः
3 सभिक सभिकः पुंलिङ्गः सभा द्यूतमाश्रयत्वेनास्यास्ति । ठन् तद्धितः अकारान्तः
4 द्यूतकारक द्यूतकारकः पुंलिङ्गः द्यूतं कारयन्ति । तत्पुरुषः समासः अकारान्तः
5 द्यूत द्यूतः पुंलिङ्गः, नपुंसकलिङ्गः देवनम् । क्त कृत् अकारान्तः
6 अक्षवती अक्षवती स्त्रीलिङ्गः अक्षाः पाशकाः । मतुप् तद्धितः ईकारान्तः
7 कैतव कैतवम् नपुंसकलिङ्गः कितवस्य कर्म । अण् तद्धितः अकारान्तः
8 पण पणः पुंलिङ्गः पणो ग्लहोऽस्त्यस्मिन् । अच् तद्धितः अकारान्तः