त्रिष्वागोष्ठान्नडप्राये नड्वान्नड्वल इत्यपि । कुमुद्वान्कुमुदप्राये वेतस्वान्बहुवेतसे ॥ ९ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | नड्वत् | नड्वान् | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | नडाः प्राया यत्र । | ड्मतुप् | तद्धितः | तकारान्तः |
2 | नड्वल | नड्वलः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | नडाः सन्त्यस्मिन् । | ड्वलच् | तद्धितः | अकारान्तः |
3 | कुमुद्वत् | कुमुद्वान् | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | कुमुदानि सन्त्यत्र । | ड्मतुप् | तद्धितः | तकारान्तः |
4 | वेतस्वत् | वेतस्वान् | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | वेतसाः सन्त्यत्र । | ड्मतुप् | तद्धितः | तकारान्तः |