अमरकोशः


श्लोकः

मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका । उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मृत् मृत् स्त्रीलिङ्गः क्विप् कृत् तकारान्तः
2 मृत्तिका मृत्तिका स्त्रीलिङ्गः तिकन् तद्धितः आकारान्तः
3 मृत्सा मृत्सा स्त्रीलिङ्गः तद्धितः आकारान्तः
4 मृत्स्ना मृत्स्ना स्त्रीलिङ्गः स्न तद्धितः आकारान्तः
5 उर्वरा उर्वरा स्त्रीलिङ्गः ऋच्छति । अच् कृत् आकारान्तः
6 ऊष ऊषः पुंलिङ्गः ऊषति । कृत् अकारान्तः
7 क्षारमृत्तिका क्षारमृत्तिका स्त्रीलिङ्गः क्षारा चासौ मृत्तिका च । अच् कृत् आकारान्तः