देशो नद्यम्बुवृष्ट्यम्बुसम्पन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ १२ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | नदीमातृक | नदीमातृकः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | नदी मातास्य । | बहुव्रीहिः | समासः | अकारान्तः |
2 | देवमातृक | देवमातृकः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | देवो मातास्य । | बहुव्रीहिः | समासः | अकारान्तः |