अमरकोशः


श्लोकः

स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते । ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद् द्वयमाहतम् ॥ ९१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कोष कोषः पुंलिङ्गः घञ् कृत् अकारान्तः
2 हिरण्य हिरण्यम् नपुंसकलिङ्गः कन्यन् उणादिः अकारान्तः
3 कुप्य कुप्यम् नपुंसकलिङ्गः अकारान्तः
4 रूप्य रूप्यम् नपुंसकलिङ्गः यप् तद्धितः अकारान्तः
5 आहत आहतम् नपुंसकलिङ्गः अकारान्तः