अमरकोशः


श्लोकः

विपणो विक्रय: संख्याः संख्येये ह्यादश त्रिषु । विंशत्याद्याः सदैकत्वे सर्वा: संख्येयसंख्ययोः ॥ ८३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विपण विपणः पुंलिङ्गः विपणनम् । घञ् कृत् अकारान्तः
2 विक्रय विक्रयः पुंलिङ्गः विक्रयणम् । अच् कृत् अकारान्तः