अमरकोशः


श्लोकः

पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम् । क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके ॥ ८१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उपनिधि उपनिधिः पुंलिङ्गः उपनिधीयते । कि कृत् इकारान्तः
2 न्यास न्यासः पुंलिङ्गः न्यस्यते । घञ् कृत् अकारान्तः
3 प्रतिदान प्रतिदानम् नपुंसकलिङ्गः प्रतीपं दानम् ॥ तत्पुरुषः समासः अकारान्तः
4 क्रय्य क्रय्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्रीयते । यत् कृत् अकारान्तः
5 क्रेय क्रेयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्रयिति ॥ यत् कृत् अकारान्तः