मौद्गीनकौद्रवीणादि शेषधान्योद्भवक्षमम् । बीजाकृतं तूप्तकृष्टं सीत्यं कृष्टं च हल्यवत् ॥ ८ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | मौद्गीन | मौद्गीनः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | मुद्गानाम् च भवनं क्षेत्रम् । | खञ् | तद्धितः | अकारान्तः |
2 | कौद्रवीण | कौद्रवीणः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | कोद्रवाणाम् च भवनं क्षेत्रम् । | खञ् | तद्धितः | अकारान्तः |
3 | बीजाकृत | बीजाकृतः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | वीजेन सह कृतं कृष्टम् । | तत्पुरुषः | समासः | अकारान्तः |
4 | उप्तकृष्ट | उप्तकृष्टः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | पूर्वम्) उप्तं च तत् (पश्चात्) कृष्टं च । | तत्पुरुषः | समासः | अकारान्तः |
5 | सीत्य | सीत्यम् | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | सीतया सम्मितम् । | यत् | तद्धितः | अकारान्तः |
6 | कृष्ट | कृष्टम् | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | कृष्यते स्म । | क्त | कृत् | अकारान्तः |
7 | हल्य | हल्यः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | हलेन कृष्टम् । | यत् | तद्धितः | अकारान्तः |