अमरकोशः


श्लोकः

यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि तत् । तिल्यतैलीनवन्माषोमाणुभङ्गाद्द्विरूपता ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 यव्य यव्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः यवानाम् ॥ यत् तद्धितः अकारान्तः
2 यवक्य यवक्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः यवकानाम् ॥ यत् तद्धितः अकारान्तः
3 षष्टिक्य षष्टिक्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः षष्टिकानाम् ॥ यत् तद्धितः अकारान्तः
4 तिल्य तिल्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तिलानाम् ॥ यत् तद्धितः अकारान्तः
5 तैलीन तैलीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तिलानाम् ॥ खञ् तद्धितः अकारान्तः
6 माष्य माष्यम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः माषाणाम् ॥ यत् तद्धितः अकारान्तः
7 माषीण माषीणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः च भवनं क्षेत्रम् । खञ् तद्धितः अकारान्तः
8 उम्य उम्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उमानाम् ॥ यत् तद्धितः अकारान्तः
9 औमीन औमीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उमानाम् ॥ खञ् तद्धितः अकारान्तः
10 अणव्य अणव्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अणूनाम् ॥ यत् तद्धितः अकारान्तः
11 आणवीन आणवीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अणूनाम् ॥ खञ् तद्धितः अकारान्तः
12 भङ्ग्य भङ्ग्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भङ्गायाम् ॥ यत् तद्धितः अकारान्तः
13 भङ्गीन भङ्गीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भङ्गायाम् ॥ खञ् तद्धितः अकारान्तः