अमरकोशः


श्लोकः

विक्रेता स्याद्विक्रयिक: क्रायकक्रयिकौ समौ । वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः ॥ ७९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विक्रेतृ विक्रेता पुंलिङ्गः विक्रीणाति । तृच् कृत् ऋकारान्तः
2 विक्रयिक विक्रयिकः पुंलिङ्गः विक्रीणाति । ठन् तद्धितः अकारान्तः
3 क्रायक क्रायकः पुंलिङ्गः विक्रयेण जीवति । ण्वुल् कृत् अकारान्तः
4 क्रयिक क्रयिकः पुंलिङ्गः क्रीणाति । ठन् तद्धितः अकारान्तः
5 वाणिज्य वाणिज्यम् नपुंसकलिङ्गः वणिजां कर्म । ष्यञ् तद्धितः अकारान्तः
6 वणिज्या वणिज्या स्त्रीलिङ्गः वणिजां कर्म । टाप् स्त्रीप्रत्ययः आकारान्तः
7 मूल्य मूल्यम् नपुंसकलिङ्गः मूलेनानाम्यम् । यत् तद्धितः अकारान्तः
8 वस्न वस्नः पुंलिङ्गः वसत्यत्र । उणादिः अकारान्तः
9 अवक्रय अवक्रयः पुंलिङ्गः अवक्रीयतेऽनेन । कृत् अकारान्तः