उक्षा महान्महोक्षः स्याद् वृद्धोक्षस्तु जरद्गवः । उत्पन्न उक्षा जातोक्षः सद्योजातस्तु तर्णकः ॥ ६१ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | महोक्ष | महोक्षः | पुंलिङ्गः | महांश्वासावुक्षा च । | तत्पुरुषः | समासः | अकारान्तः |
2 | वृद्धोक्ष | वृद्धोक्षः | पुंलिङ्गः | वृद्धश्चासावुक्षा च | तत्पुरुषः | समासः | अकारान्तः |
3 | जरद्गव | जरद्गवः | पुंलिङ्गः | जरंश्चासौ गौश्च । | तत्पुरुषः | समासः | अकारान्तः |
4 | जातोक्ष | जातोक्षः | पुंलिङ्गः | जातश्चासावुक्षा च । | तत्पुरुषः | समासः | अकारान्तः |
5 | तर्णक | तर्णकः | पुंलिङ्गः | तृणोति । | ण्वुल् | कृत् | अकारान्तः |