अमरकोशः


श्लोकः

द्विहायनी द्विवर्षा गौरेकाब्दा त्वेकहायनी । चतुरब्दा चतुर्हायण्येवं त्र्यब्दा त्रिहायणी ॥ ६८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 द्विहायनी द्विहायनी स्त्रीलिङ्गः द्वौ हायनौ यस्याः । बहुव्रीहिः समासः ईकारान्तः
2 द्विवर्षा द्विवर्षा स्त्रीलिङ्गः द्वे वर्षे वयःप्रमाणमस्याः । ठक् तद्धितः आकारान्तः
3 एकाब्दा एकाब्दा स्त्रीलिङ्गः एकोऽब्दो यस्याः ॥ बहुव्रीहिः समासः आकारान्तः
4 एकहायनी एकहायनी स्त्रीलिङ्गः एको हायनो यस्याः । बहुव्रीहिः समासः ईकारान्तः
5 चतुरब्दा चतुरब्दा स्त्रीलिङ्गः चत्वारोऽब्दा यस्याः ॥ बहुव्रीहिः समासः आकारान्तः
7 चतुर्हायणी चतुर्हायणी स्त्रीलिङ्गः चत्वारो हायना यस्याः बहुव्रीहिः समासः ईकारान्तः
8 त्र्यब्दा त्र्यब्दा स्त्रीलिङ्गः त्रयोऽब्दा यस्याः ॥ बहुव्रीहिः समासः आकारान्तः
7 त्रिहायणी त्रिहायणी स्त्रीलिङ्गः त्रयो हायना यस्याः ॥ बहुव्रीहिः समासः ईकारान्तः