अमरकोशः


श्लोकः

क्षेत्राजीवः कर्षकश्च कृषकश्च कृषीवलः । क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवोचितम् ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्षेत्राजीव क्षेत्राजीवः पुंलिङ्गः क्षेत्रमाजीवोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
2 कर्षक कर्षकः पुंलिङ्गः कर्षति । ण्वुल् कृत् अकारान्तः
3 कृषक कृषकः पुंलिङ्गः कर्षति । क्वुन् उणादिः अकारान्तः
4 कृषीवल कृषीवलः पुंलिङ्गः कर्षणम् । वलच् तद्धितः अकारान्तः
5 व्रैहेय व्रैहेयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्रीहीणाम् ॥ ढक् तद्धितः अकारान्तः
6 शालेय शालेयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शालीनाम् ॥ ढक् तद्धितः अकारान्तः