अमरकोशः


श्लोकः

जेमनं लेह आहारो निघसो न्याद इत्यपि । सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम् ॥ ५६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जेमन जेमनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 लेह लेहः पुंलिङ्गः घञ् कृत् अकारान्तः
3 आहार आहारः पुंलिङ्गः आहरणम् । घञ् कृत् अकारान्तः
4 निघस निघसः पुंलिङ्गः न्यदनम् । अप् कृत् अकारान्तः
5 न्याद न्यादः पुंलिङ्गः न्यदनम् । कृत् अकारान्तः
6 सौहित्य सौहित्यम् नपुंसकलिङ्गः सुहितस्य भावः । ष्यञ् तद्धितः अकारान्तः
7 तर्पण तर्पणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
8 तृप्ति तृप्तिः स्त्रीलिङ्गः क्तिन् स्त्रीप्रत्ययः इकारान्तः
10 फेला फेला स्त्रीलिङ्गः फेल्यते । कृत् आकारान्तः
12 भुक्तसमुज्झित भुक्तसमुज्झितम् नपुंसकलिङ्गः पूर्वं भुक्तं पश्चात्समुज्झितम् । तत्पुरुषः समासः अकारान्तः