स्यात्पिच्छिलं तु विजिलं सम्मृष्टं शोधितं समे । चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते ॥ ४६ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | पिच्छिल | पिच्छिलः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | पिच्छोऽस्यास्ति । | इलच् | तद्धितः | अकारान्तः |
2 | विजिल | विजिलः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | विजनम् । | क | कृत् | अकारान्तः |
3 | संमृष्ट | संमृष्टः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | संमृज्यते स्म | क्त | कृत् | अकारान्तः |
4 | शोधित | शोधितः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | शोध्यते स्म । | क्त | कृत् | अकारान्तः |
5 | चिक्कण | चिक्कणः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | चिक्कनम् । | क | कृत् | अकारान्तः |
6 | मसृण | मसृणः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | मस्यति । | ऋण | बाहुलकात् | अकारान्तः |
7 | स्निग्ध | स्निग्धः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | स्निह्यति स्म । | क्त | कृत् | अकारान्तः |
8 | भावित | भावितः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | भाव्यते स्म | क्त | कृत् | अकारान्तः |
9 | वासित | वासितः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | वास्यते स्म । | क्त | कृत् | अकारान्तः |