शूलाकृतं भटित्रं च शूल्यमुख्यं तु पैठरम् । प्रणीतमुपसम्पन्नं प्रयस्तं स्यात्सुसंस्कृतम् ॥ ४५ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | शूलाकृत | शूलाकृतः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | शूलेन कृतम् । | डाच् | तद्धितः | अकारान्तः |
2 | भटित्र | भटित्रः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | भटति । | इत्र | उणादिः | अकारान्तः |
3 | शूल्य | शूल्यः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | शूले संस्कृतम् । | यत् | तद्धितः | अकारान्तः |
4 | उख्य | उख्यः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | उखायां संस्कृतम् । | यत् | तद्धितः | अकारान्तः |
5 | पैठर | पैठरः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | पिठरे संस्कृतं | अण् | तद्धितः | अकारान्तः |
6 | प्रणीत | प्रणीतः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | प्रणीयते स्म । | क्त | कृत् | अकारान्तः |
7 | उपसम्पन्न | उपसम्पन्नः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | उपसम्पद्यते स्म । | क्त | कृत् | अकारान्तः |
8 | प्रयस्त | प्रयस्तः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | प्रयस्यते स्म । | क्त | कृत् | अकारान्तः |
9 | सुसंस्कृत | सुसंस्कृतः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | सुष्ठु संस्क्रियते स्म । | क्त | कृत् | अकारान्तः |