द्रोणाढकादिवापादौ द्रौणिकाढकिकादयः । खारीवापस्तु खारीक उत्तमर्णादयस्त्रिषु ॥ १० ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | द्रौणिक | द्रौणिकः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | द्रोणस्य वापः । | ठञ् | तद्धितः | अकारान्तः |
2 | आढकिक | आढकिकः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | आढकस्य वापः | ठञ् | तद्धितः | अकारान्तः |
3 | खारीक | खारीकः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | खार्या वापः । | ईकन् | तद्धितः | अकारान्तः |