अमरकोशः


श्लोकः

स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम् । अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः ॥ ९६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आसार आसारः पुंलिङ्गः आसरणम् । घञ् कृत् अकारान्तः
2 प्रसरण प्रसरणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 प्रचक्र प्रचक्रम् नपुंसकलिङ्गः प्रस्थितं चक्रं सैन्यम् ॥ तत्पुरुषः समासः अकारान्तः
4 चलित चलितम् नपुंसकलिङ्गः अकारान्तः
5 अभिक्रम अभिक्रमः पुंलिङ्गः अभिक्रमणम् । घञ् कृत् अकारान्तः