अमरकोशः


श्लोकः

यत्सेनयाभिगमनमरौ तदभिषेणनम् । यात्रा व्रज्याभिनिर्याणं प्रस्थानं गमनं गम: ॥ ९५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अभिषेणन अभिषेणनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 यात्रा यात्रा स्त्रीलिङ्गः यानम् । त्रन् उणादिः आकारान्तः
3 व्रज्या व्रज्या स्त्रीलिङ्गः व्रजनम् । क्यप् कृत् आकारान्तः
4 अभिनिर्याण अभिनिर्याणम् नपुंसकलिङ्गः अभिनिर्या ॥ ल्युट् कृत् अकारान्तः
5 प्रस्थान प्रस्थानम् नपुंसकलिङ्गः प्रस्था ॥ ल्युट् कृत् अकारान्तः
6 गमन गमनम् नपुंसकलिङ्गः गमि ॥ ल्युट् कृत् अकारान्तः
7 गम गमः पुंलिङ्गः अप् कृत् अकारान्तः