अमरकोशः


श्लोकः

सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः । लोहाभिहारोऽस्त्रभृतां राज्ञां नीराजनाविधिः ॥ ९४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सर्वाभिसार सर्वाभिसारः पुंलिङ्गः सर्वेणाभिसरणम् । तत्पुरुषः समासः अकारान्तः
2 सर्वौघ सर्वौघः पुंलिङ्गः सर्वस्यौघः । तत्पुरुषः समासः अकारान्तः
3 सर्वसंनहन सर्वसंनहनः पुंलिङ्गः सर्वेषां संनहनम् । बहुव्रीहिः समासः अकारान्तः
4 लोहाभिसार लोहाभिसारः पुंलिङ्गः लोहस्य शस्त्रस्याभितो हरणम् । तत्पुरुषः समासः अकारान्तः