अमरकोशः


श्लोकः

धन्वी धनुष्मान् धानुष्को निषङ्ग्यस्त्री धनुर्धरः । स्यात्काण्डवांस्तु काण्डीर: शाक्तीकः शक्तिहेतिक: ॥ ६९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धन्विन् धन्वी पुंलिङ्गः धन्वास्यास्ति इनि तद्धितः नकारान्तः
2 धनुष्मत् धनुष्मान् पुंलिङ्गः धनुरस्यास्ति । मतुप् तद्धितः तकारान्तः
3 धानुष्क धानुष्कः पुंलिङ्गः धनुः प्रहरणमस्य । ठक् तद्धितः अकारान्तः
4 निषङ्गिन् निषङ्गी पुंलिङ्गः निषङ्गोऽस्यास्ति । इनि तद्धितः नकारान्तः
5 अस्त्रिन् अस्त्री पुंलिङ्गः अस्त्रमस्यास्ति । इनि तद्धितः नकारान्तः
6 धनुर्धर धनुर्धरः पुंलिङ्गः धनुषो धर: ॥ तत्पुरुषः समासः अकारान्तः
7 काण्डवत् काण्डवान् पुंलिङ्गः काण्डो बाणोऽस्यास्ति । मतुप् तद्धितः तकारान्तः
8 काण्डीर काण्डीरः पुंलिङ्गः काण्डो बाणोऽस्यास्ति । ईरन् तद्धितः अकारान्तः
9 शाक्तीक शाक्तीकः पुंलिङ्गः शक्तिः प्रहरणमस्य । ईकन् तद्धितः अकारान्तः
10 शक्तिहेतिक शक्तिहेतिकः पुंलिङ्गः शक्तिर्हेतिर्यस्य ॥ ईकन् उणादिः अकारान्तः