आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् । सन्नद्धो वर्मितः सज्जो दंशितो व्यूढकङ्कटः ॥ ६५ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | आमुक्त | आमुक्तः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | आमुच्यते स्म । | क्त | कृत् | अकारान्तः |
2 | प्रतिमुक्त | प्रतिमुक्तः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | प्रतेरपि ॥ | क्त | कृत् | अकारान्तः |
3 | पिनद्ध | पिनद्धः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अपि नह्यते स्म । | क्त | कृत् | अकारान्तः |
4 | अपिनध्द | अपिनध्दः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अपि नह्यते स्म । | क्त | कृत् | अकारान्तः |
5 | संनद्ध | संनद्धः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | संनह्यति, संनह्यते, वा स्म । | क्त | कृत् | अकारान्तः |
6 | वर्मित | वर्मितः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | वर्मणा नह्यते स्म । | इतच् | तद्धितः | अकारान्तः |
7 | सज्ज | सज्जः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | सज्जति । | अच् | कृत् | अकारान्तः |
8 | दंशित | दंशितः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | दंशः सञ्जातोऽस्य । | इतच् | तद्धितः | अकारान्तः |
9 | व्यूढकङ्कट | व्यूढकङ्कटः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | व्यूढो धृतः कङ्कटो येन ॥ | बहुव्रीहिः | समासः | अकारान्तः |