अमरकोशः


श्लोकः

शिबिका याप्ययानं स्याद् दोला प्रेङ्खादिकाः स्त्रियाम् । उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे ॥ ५३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शिबिका शिबिका स्त्रीलिङ्गः शिवैव । कन् तद्धितः आकारान्तः
2 याप्ययान याप्ययानम् नपुंसकलिङ्गः याप्यैरधमैर्वाह्यं यानम् ॥ तत्पुरुषः समासः अकारान्तः
3 दोला दोला स्त्रीलिङ्गः दोलयति । अच् कृत् आकारान्तः
4 प्रेङ्खा प्रेङ्खा स्त्रीलिङ्गः प्रेङ्ख्यते । घञ् कृत् आकारान्तः
5 द्वैप द्वैपः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः द्वीपिनो व्याघ्रस्य च विकारः । अञ् तद्धितः अकारान्तः
6 वैयाघ्र वैयाघ्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः द्वीपिनो व्याघ्रस्य च विकारः । अञ् तद्धितः अकारान्तः