अमरकोशः


श्लोकः

पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली । रथे काम्बलवस्त्राद्याः कम्बलादिभिरावृते ॥ ५४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पाण्डुकम्बलिन् पाण्डुकम्बली पुंलिङ्गः पाण्डुकम्बलेन परिवृतो रथः । इनि तद्धितः नकारान्तः
2 काम्बल काम्बलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कम्बलेन वस्त्रेण च प्रावृतो रथः । अण् तद्धितः अकारान्तः
3 वास्त्र वास्त्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अकारान्तः