पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः । विविक्तविजनच्छन्ननि:शलाकास्तथा रहः ॥ २२ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | अषडक्षीण | अषडक्षीणः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अविद्यमानानि षड् अक्षीण्यत्र । | बहुव्रीहिः | समासः | अकारान्तः |
2 | विविक्त | विविक्तः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | विविञ्चन्ति जना अत्र । | क्त | कृत् | अकारान्तः |
3 | विजन | विजनः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | विगतो जनोऽस्मात् ॥ | बहुव्रीहिः | समासः | अकारान्तः |
4 | छन्न | छन्नः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | छद्यते स्म | क्त | कृत् | अकारान्तः |
5 | नि:शलाक | नि:शलाकः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | निर्गता शलाकाप्यस्मात् । | बहुव्रीहिः | समासः | अकारान्तः |
6 | रहस् | रहस्म् | नपुंसकलिङ्गः | रह्यते । | असुन् | उणादिः | सकारान्तः |