अमरकोशः


श्लोकः

वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहत । सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वयस्य वयस्यः पुंलिङ्गः वयसा तुल्यः । यत् तद्धितः अकारान्तः
2 स्निग्ध स्निग्धः पुंलिङ्गः स्निह्यति । क्त कृत् अकारान्तः
3 सवयस् सवयस् पुंलिङ्गः समानं वयोऽस्य । बहुव्रीहिः समासः सकारान्तः
4 मित्र मित्रम् नपुंसकलिङ्गः मेद्यति । क्र उणादिः अकारान्तः
5 सखि सखिः पुंलिङ्गः समानः ख्यायते लोकैः । इण् उणादिः इकारान्तः
6 सुहृद् सुहृद् पुंलिङ्गः शोभनं हृदयमस्य । बहुव्रीहिः समासः दकारान्तः
7 सख्य सख्यम् नपुंसकलिङ्गः सख्युर्भावः कर्म वा । तद्धितः अकारान्तः
8 साप्तपदीन साप्तपदीनम् नपुंसकलिङ्गः सप्तभिः पदैरवाप्यते । निपातनात् अकारान्तः
9 अनुरोध अनुरोधः पुंलिङ्गः अनुगम्य रोधनम् । घञ् कृत् अकारान्तः
10 अनुवर्तन अनुवर्तनम् नपुंसकलिङ्गः अनुगम्य वर्तनं चित्ताराधनम् ॥ ल्युट् कृत् अकारान्तः