अमरकोशः


श्लोकः

सा वीराशंसनं युद्धभूमिर्यातिभयप्रदा । अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् ॥ १०० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वीराशंसन वीराशंसनम् नपुंसकलिङ्गः वीरा आशंस्यन्तेऽत्र । ल्युट् कृत् अकारान्तः
2 अहंपूर्विका अहंपूर्विका स्त्रीलिङ्गः अहं पूर्वम् । कन् तद्धितः आकारान्तः