अमरकोशः


श्लोकः

षड् गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः । क्षय: स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शक्ति शक्तिः स्त्रीलिङ्गः तत्पुरुषः समासः इकारान्तः
2 क्षय क्षयः पुंलिङ्गः क्षयनम् । अच् कृत् अकारान्तः
3 स्थान स्थानम् नपुंसकलिङ्गः उपचयापचयाभावः स्थानम् ॥ ल्युट् कृत् अकारान्तः
4 वृद्धि वृद्धिः स्त्रीलिङ्गः उपचयो वृद्धिः ॥ क्तिन् स्त्रीप्रत्ययः इकारान्तः
5 त्रिवर्ग त्रिवर्गः पुंलिङ्गः त्रयाणां वर्गः ॥ तत्पुरुषः समासः अकारान्तः