अमरकोशः


श्लोकः

तान्त्रिको ज्ञातसिद्धान्तः सत्त्री गृहपतिः समौ । लिपिंकरोऽक्षरचणोऽक्षरचञ्चुश्च लेखके ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तान्त्रिक तान्त्रिकः पुंलिङ्गः तन्त्रं सिद्धान्तमधीते वेद वा । ठक् तद्धितः अकारान्तः
2 ज्ञातसिद्धान्त ज्ञातसिद्धान्तः पुंलिङ्गः ज्ञातः सिद्धान्तो येन ॥ बहुव्रीहिः समासः अकारान्तः
3 सत्त्रिन् सत्त्रिन् पुंलिङ्गः सत्रमस्यास्ति । इनि तद्धितः नकारान्तः
4 गृहपति गृहपतिः पुंलिङ्गः गृहस्य पतिः ॥ तत्पुरुषः समासः इकारान्तः
5 लिपिकर लिपिकरः पुंलिङ्गः लिपिं करोति । कृत् अकारान्तः
6 अक्षरचण अक्षरचणः पुंलिङ्गः अक्षरैर्वित्तः । चणप् तद्धितः अकारान्तः
7 अक्षरचुञ्चु अक्षरचुञ्चुः पुंलिङ्गः अक्षरैर्वित्तः । चुञ्चुप् तद्धितः उकारान्तः
8 लेखक लेखकः पुंलिङ्गः लिखति । ष्वुन् कृत् अकारान्तः