अमरकोशः


श्लोकः

मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः । संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः ॥ ४० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मुख्य मुख्यः पुंलिङ्गः मुखमिव । यत् तद्धितः अकारान्तः
2 अनुकल्प अनुकल्पः पुंलिङ्गः अनु हीनः कल्पः । तत्पुरुषः समासः अकारान्तः
3 उपाकरण उपाकरणम् नपुंसकलिङ्गः उपाक्रियतेऽनेन । ल्युट् ल्युट् कृत् अकारान्तः