षट् तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि । क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ॥ ३३ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | अर्घ्य | अर्घ्यः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अर्घायेदम् । | यत् | तद्धितः | अकारान्तः |
2 | पाद्य | पाद्यः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | पादायेदम् ॥ | यत् | तद्धितः | अकारान्तः |
3 | आतिथ्य | आतिथ्यः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अतिथय इदम् । | ञ्य | तद्धितः | अकारान्तः |
4 | आतिथेय | आतिथेयः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अतिथौ साधु । | ढञ् | तद्धितः | अकारान्तः |