अमरकोशः


श्लोकः

विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् । राजवीजी राजवंश्य: बीज्यस्तु कुलसम्भवः ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चातुर्वर्ण्य चातुर्वर्ण्यम् नपुंसकलिङ्गः चत्वार एव वर्णाः । ष्यञ् तद्धितः अकारान्तः
2 राजबीजिन् राजबीजिन् पुंलिङ्गः राज्ञो वीजयितुं शीलमस्य । णिनि कृत् नकारान्तः
3 राजवंश्य राजवंश्यः पुंलिङ्गः राज्ञो वंश्यः । यत् तद्धितः अकारान्तः
4 बीज्य बीज्यः पुंलिङ्गः वीज्यते । यत् कृत् अकारान्तः
5 कुलसम्भव कुलसम्भवः पुंलिङ्गः कुले सम्भवति । अच् कृत् अकारान्तः