अमरकोशः


श्लोकः

सांनाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम् । दीक्षान्तोऽवभृथो यज्ञे तत्कर्मार्हं तु यज्ञियम् ॥ २७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सान्नाय्य सान्नाय्यम् नपुंसकलिङ्गः संनीयते । निपातनात् अकारान्तः
2 हविस् हविस्म् नपुंसकलिङ्गः हूयते । इसि उणादिः सकारान्तः
3 वषट्कृत वषट्कृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वषट्मन्त्रेण कृतं प्रक्षिप्तम् ॥ तत्पुरुषः समासः अकारान्तः
4 अवभृथ अवभृथः पुंलिङ्गः अवभ्रियतेऽनेन । क्थन् उणादिः अकारान्तः
5 यज्ञिय यज्ञियम् नपुंसकलिङ्गः तस्य यज्ञस्य क्रियामर्हति । तद्धितः अकारान्तः