अमरकोशः


श्लोकः

ओष्ठाधरौ तु रदनच्छदौ दशनवाससी । अधस्ताच्चिवुकं गण्डौ कपोलौ तत्परो हनुः ॥ ९० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ओष्ठ ओष्ठः पुंलिङ्गः उष्यते उष्णाहारेण । थन् उणादिः अकारान्तः
2 अधर अधरः पुंलिङ्गः न धियते । तत्पुरुषः समासः अकारान्तः
3 रदनच्छद रदनच्छदः पुंलिङ्गः रदनाः छाद्यन्तेऽनेन कृत् अकारान्तः
4 दशनवासस् दशनवासस्म् नपुंसकलिङ्गः दशनानां वाससी इव । तत्पुरुषः समासः सकारान्तः
5 चिबुक चिबुकम् नपुंसकलिङ्गः चीवति, चीव्यते, वा । कु उणादिः अकारान्तः
6 गण्ड गण्डः पुंलिङ्गः गण्डति । अच् कृत् अकारान्तः
7 कपोल कपोलः पुंलिङ्गः कम्पते । ओलच् उणादिः अकारान्तः
8 हनु हनुः पुंलिङ्गः, स्त्रीलिङ्गः हन्ति । उणादिः उकारान्तः