स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि चाप्यमी । उन्मत्त उन्मादवति श्लेष्मल: श्लेष्मण: कफी ॥ ६० ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | चुल्ल | चुल्लः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | चक्षुर्गतः क्लेदरोगश्चुल्लादिवाच्यः । | ल | तद्धितः | अकारान्तः |
2 | चिल्ल | चिल्लः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | चक्षुर्गतः क्लेदरोगश्चुल्लादिवाच्यः । | ल | तद्धितः | अकारान्तः |
3 | पिल्ल | पिल्लः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | चक्षुर्गतः क्लेदरोगश्चुल्लादिवाच्यः । | ल | तद्धितः | अकारान्तः |
4 | उन्मत्त | उन्मत्तः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | उन्माद्यति स्म । | क्त | कृत् | अकारान्तः |
5 | उन्मादवत् | उन्मादवत् | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | उन्मादोऽस्यास्ति । | घञ् | कृत् | तकारान्तः |
6 | श्लेष्मल | श्लेष्मलः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | श्लेष्मास्यास्ति । | लच् | तद्धितः | अकारान्तः |
7 | श्लेष्मण | श्लेष्मणः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | न | तद्धितः | अकारान्तः | |
8 | कफिन् | कफी | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | कफोऽस्यास्ति । | इनि | तद्धितः | नकारान्तः |