वर्षीयान्दशमी ज्यायान् पूर्वजस्त्वग्रियोऽग्रजः । जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः ॥ ४३ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | वर्षीयस् | वर्षीयस् | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अतिशयेन वृद्धः । | ईयसुन् | तद्धितः | सकारान्तः |
2 | दशमिन् | दशमिन् | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | दशमोऽवस्थाविशेषोऽस्यास्ति । | इनि | तद्धितः | नकारान्तः |
3 | ज्यायस् | ज्यायस् | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अतिशयेन वृद्धः । | ईयसुन् | तद्धितः | सकारान्तः |
4 | पूर्वज | पूर्वजः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | पूर्वस्मिन्काले जातः । | ड | कृत् | अकारान्तः |
5 | अग्रिय | अग्रियः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अग्रे जातः । | घ | तद्धितः | अकारान्तः |
6 | अग्रज | अग्रजः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अग्रे जातः । | ड | कृत् | अकारान्तः |
7 | जघन्यज | जघन्यजः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | जघन्येऽवरकाले जातः । | ड | कृत् | अकारान्तः |
8 | कनिष्ठ | कनिष्ठः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अतिशयेन युवा । | इष्ठन् | तद्धितः | अकारान्तः |
9 | यवीयस् | यवीयः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | ईयसुन् | तद्धितः | सकारान्तः | |
10 | अवरज | अवरजः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अवरस्मिन् काले जातः । | ड | कृत् | अकारान्तः |
11 | अनुज | अनुजः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | अनु पश्चाज्जातः । | ड | कृत् | अकारान्तः |