अमरकोशः


श्लोकः

दम्पती जम्पती जायापती भार्यापती च तौ । गर्भाशयो जरायुः स्यादुल्वं च कललोऽस्त्रियाम् ॥ ३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दम्पती दम्पती पुंलिङ्गः जाया च पतिश्च । द्वन्द्वः समासः ईकारान्तः
2 जम्पती जम्पती पुंलिङ्गः जाया च पतिश्च । द्वन्द्वः समासः ईकारान्तः
3 जायापती जायापती पुंलिङ्गः जाया च पतिश्च । द्वन्द्वः समासः ईकारान्तः
4 भार्यापति भार्यापतिः पुंलिङ्गः भार्या च पतिश्च ॥ द्वन्द्वः समासः इकारान्तः
5 गर्भाशय गर्भाशयः पुंलिङ्गः गर्भ आशेते अत्र । कृत् अकारान्तः
6 जरायु जरायुः पुंलिङ्गः जरामेति । ञुण् उणादिः उकारान्तः
7 उल्व उल्वः पुंलिङ्गः, नपुंसकलिङ्गः उल्लीयते । वन् उणादिः अकारान्तः
8 कलल कललः पुंलिङ्गः, नपुंसकलिङ्गः कल्यते । कल उणादिः अकारान्तः