अमरकोशः


श्लोकः

मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ । श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च ॥ ३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मातापितृ मातापितरौ पुंलिङ्गः माता च पिता च । द्वन्द्वः समासः ऋकारान्तः
2 पितृ पितरौ पुंलिङ्गः माता च पिता च । एकशेषः ऋकारान्तः
3 मातरपितृ मातरपितरौ पुंलिङ्गः माता च पिता च । द्वन्द्वः समासः ऋकारान्तः
4 श्वश्रूश्वशुर श्वश्रूश्वशुरौ पुंलिङ्गः श्वश्रूश्च श्वशुरश्च ॥ द्वन्द्वः समासः अकारान्तः
5 श्वशुर श्वशुरः पुंलिङ्गः श्वश्रूश्च श्वशुरश्च ॥ एकशेषः अकारान्तः
6 पुत्रौ पुत्रौ पुंलिङ्गः पुत्रश्च दुहिता च । एकशेषः औकारान्तः