अमरकोशः


श्लोकः

चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु । संस्कारो गन्धमाल्याद्यैर्य: स्यात्तदधिवासनम् ॥ १३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चूर्ण चूर्णम् नपुंसकलिङ्गः चूर्ण्यते । घञ् कृत् अकारान्तः
2 वासयोग वासयोगः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
3 भावित भावितम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भाव्यते स्म । क्त कृत् अकारान्तः
4 वासित वासितम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वास्यते स्म । क्त कृत् अकारान्तः
5 अधिवासन अधिवासनम् नपुंसकलिङ्गः अधिकं वास्यते । ल्युट् कृत् अकारान्तः